AFFILIATE MARKETING

https://binomo.com?a=90810425bb57&t=0

Wednesday, December 31, 2025

श्री बिल्वाष्टकम्

॥ श्री बिल्वाष्टकम् ॥
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ १ ॥

त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।
शिवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २ ॥

अखण्ड बिल्वपत्रेण पूजिते नन्दिकेश्वरे ।
शुद्ध्यन्ति सर्वपापेभ्यो एकबिल्वं शिवार्पणम् ॥ ३ ॥

शालिग्राम शिलैकं च विप्राणां जातु च द्विजैः ।
अग्निकोटि सहस्राणि एकबिल्वं शिवार्पणम् ॥ ४ ॥

दन्तिकोटि सहस्रेषु अश्वमेध शतानि च ।
कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥ ५ ॥

काशीक्षेत्रे निवासं च कालभैरव दर्शनम् ।
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥ ६ ॥

इन्द्रादि देववृन्दैश्च पूजितं परमेश्वरम् ।
लिङ्गरूपं महादेवं एकबिल्वं शिवार्पणम् ॥ ७ ॥

सर्वरोग विनाशं च सर्वसंपत्करं शुभम् ।
सर्वलोकैकनाथं च एकबिल्वं शिवार्पणम् ॥ ८ ॥

॥ फलश्रुति ॥
बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ ।
सर्वपाप विनिर्मुक्तः शिवलोकं स गच्छति ॥

No comments:

COASTAL NEWS

ଦେଶରେ ତୃତୀୟ ପର୍ଯ୍ୟାୟ ଭୋଟର ତାଲିକା ସଂଶୋଧନ ନେଇ ଘୋଷଣା କଲେ ଭାରତୀୟ ନିର୍ବାଚନ କମିଶନ(ଇସିଆଇ)। ଏଥରେ ଓଡ଼ିଶା ପାଳି।

ଦେଶରେ ତୃତୀୟ ପର୍ଯ୍ୟାୟ ଭୋଟର ତାଲିକା ସଂଶୋଧନ ନେଇ ଘୋଷଣା କଲେ ଭାରତୀୟ ନିର୍ବାଚନ କମିଶନ(ଇସିଆଇ)। ଏଥରେ ଓଡ଼ିଶା ପାଳି। ତୃତୀୟ ପର୍ଯ୍ୟାୟରେ ୧୬ ରାଜ୍ୟ ଓ ୩ କେନ୍ଦ୍ର ...