कोस्टल म्यूजिक प्रायोजित
॥ शिवाष्टकम् ॥
प्रभुं प्राणनाथं विभुं विश्वनाथं
जगन्नाथनाथं सदानन्दभाजम् ।
भवद्भव्यभूतेश्वरं भूतनाथं
शिवं शङ्करं शम्भुमीशानमीडे ॥ १ ॥
गले रुण्डमालं तनौ सर्पजालं
महाकालकालं गणेशाधिपालम् ।
जटाजूटगङ्गोत्तरङ्गैर्विशालं
शिवं शङ्करं शम्भुमीशानमीडे ॥ २ ॥
मुदामाकरं मण्डनं मण्डयन्तं
महामण्डलं भस्मभूषाधरं तम् ।
अनादिं ह्यपारं महामोहहारं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ३ ॥
वटाधो निवासं महाट्टाट्टहासं
महापापनाशं सदासुप्रकाशम् ।
गिरीशं गणेशं सुरेशं महेशं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ४ ॥
गिरिन्द्रात्मजासङ्ग्रहं गीतवाद्य-
विनोदप्रियं प्रमथेशं सुशान्तम् ।
अकामं निराकारमोङ्काररूपं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ५ ॥
परं ब्रह्म वेदं प्रधनं प्रधानं
सनातनमेकं विभुं वेदगम्यम् ।
विरागं विशुद्धं सदानन्दमेकं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ६ ॥
ललाटे त्रिनेत्रं शिवं शीतकण्ठं
सदासच्चिदानन्दपूर्णप्रकाशम् ।
निराकारमाकारमाकारवन्द्यं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ७ ॥
शिवाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ८ ॥
प्रायोजक जगन्नाथ महांती
No comments:
Post a Comment