नमः शिवाय शान्ताय
करुणाकररूपिणे।
संहारकर्त्रे देवाय
महादेवाय ते नमः॥
गङ्गाधराय सोमाय
भस्मभूषितमूर्तये।
त्रिनेत्राय महेशाय
नित्यं नित्यं नमो नमः॥
कैलासवासिने नाथ
भक्तानुग्रहकारिणे।
भवसागरमग्नानां
त्राहि त्राहि शिव प्रभो॥
अज्ञानतिमिरध्वान्त
ज्ञानदीपप्रकाशक।
पापदुःखविनाशाय
शरणं ते वृषध्वज॥
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव॥
ॐ नमः शिवाय
ॐ नमः शिवाय
ॐ नमः शिवाय॥
कोस्टल म्यूजिक प्रायोजित
निवेदक जगन्नाथ महांती
No comments:
Post a Comment