शिव करुणा प्रार्थना
नमस्ते करुणानाथाय नमस्ते शम्भवे नमः ।
नमस्ते दुःखहर्त्रे च नमस्ते विश्वरूपिणे ॥१॥
अनाथानां नाथ त्वं शरणागतवत्सलः ।
पाहि मां शरणं देहि करुणां परमेश्वर ॥२॥
पापपङ्कनिमग्नं मां उद्धरस्व कृपानिधे ।
ज्ञानदीपं प्रदीप्यन्तं तमसो नय मां प्रभो ॥३॥
क्लेशसागरमग्नं मां त्राहि त्राहि महेश्वर ।
भवबन्धविनिर्मुक्तिं देहि मे करुणामय ॥४॥
न जानामि जपं ध्यानं न पूजां न तपः प्रभो ।
करुणैव महादेव रक्ष मां शरणागतम् ॥५॥
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव ॥६॥
दीनबन्धो महादेव कृपया पश्य मां प्रभो ।
शिव शान्तिं सुखं भक्तिं देहि मे परमेश्वर ॥७॥
इति करुणया युक्ता शिवे भक्त्या समर्पिता ।
प्रार्थना मे महादेव गृहाण करुणाकर ॥८॥
कोस्टल म्यूजिक प्रायोजित
निवेदक जगन्नाथ महांती
No comments:
Post a Comment