ॐ नमः शिवाय ॥
नमामि शंकरं शान्तं
सर्वलोकैकनायकम् ।
ब्रह्मविष्णुमहेशानं
त्रिगुणातीतमीश्वरम् ॥
शशाङ्कशेखरं देवं
गङ्गाधरं त्रिलोचनम् ।
नीलकण्ठं महायोगी
भवभयहरं हरम् ॥
वासुक्याभरणं देवं
भस्मोद्धूलितविग्रहम् ।
नन्दिवाहनसंयुक्तं
नमामि शूलपाणिनम् ॥
करचरणकृतं पापं
वाक्कायजमथापि यत् ।
श्रवणनयनजं दोषं
मानसं वा क्षमस्व मे ॥
अज्ञानतिमिरान्धस्य
ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन
तस्मै श्रीशिवरूपिणे नमः ॥
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव ॥
नित्यं शुद्धं निराकारं
निर्गुणं निरुपद्रवम् ।
निरञ्जनं निराभासं
शिवमेव नमाम्यहम् ॥
शिव शान्तिः शिव शान्तिः
शिव शान्तिः सर्वदा मम ।
सर्वेषां शान्तिरस्तु
लोकाः समस्ताः सुखिनो भवन्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
कोस्टल म्यूजिक प्रायोजित
निवेदक जगन्नाथ महांती
No comments:
Post a Comment